खेलराज्य

स्विस अकॅडमी इंग्लिश विद्यालये दत्तधाम परभणी, शालेय क्रीडादिनं उत्साहेन सम्पन्नम्।

अस्मिन क्रीडादिनसमारोहे मुख्यअतिथिरूपेण सौ. प्रिया घोरके महोदया ,उपायुक्ता, मनपा परभणी, क्रीडाशिक्षकः संभाजिः बादाड, एकात्मिकग्रामीणकृषिविकाससंस्थायाः संस्थापकाध्यक्षः रामः कवडे, संस्थायाः सचिवा सौ. प्रतिभा कवडे, उपप्राचार्या स्नेहा पाटील च मंचे उपस्थिता आसन्।

ध्वजारोहणं दीपप्रज्वलनं च मान्यवराणां हस्ते सम्पन्नं। ततः अनन्तरं छात्रैः मार्चपासं कुर्वन्तः विविधमैदानीकला प्रस्तुत्य दर्शकानां मनः समाहृतम्।

त्रिदिनात्मकस्य अस्य क्रीडामहोत्सवस्य अन्तर्गतं विविधपारम्परिकक्रीडानां संरक्षणार्थं तेषां समावेशः कृतः।

कार्यक्रमस्य यशस्वितायै क्रीडाविभागस्य प्रमुखौ बालाजिः मानोलिकरः, अनिता जमादारः च परिश्रमं कृतवन्तौ। तेषां उत्तरदायित्वं प्रशंस्यं वर्तते इति विद्यालयस्य प्रशासकीयाधिकारी नागेशः पाटील, उपप्राचार्या स्नेहा पाटील च तथा सर्वे शिक्षकवृन्दाः क्रीडाविभागस्य प्रशंसा कृतवन्तः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button