शिक्षाराज्य

कृषिः स्नातकाः स्वयम् कृषिं कृत्वा कृषकानाम् मार्गदर्शनं कुर्युः

कृषिमन्त्री माणिकरावः कोकाटे

परभणी/प्रतिनिधिः

राज्यस्य चतुर्षु कृषिविश्वविद्यालयेषु नवीनं वानं, नवीनं तन्त्रज्ञानं च उपयुज्य कृषकानां प्रगतिं साधयितुं दायित्वं निर्वाहयन्तु, तथैव छात्रान् प्रत्यक्षं कृषिं कर्तुं प्रोत्साहयन्तु। तदर्थं प्रत्येकं छात्रेण द्वौ त्रयः वा एकरः भूमिः कर्षणीयः। तथैव छात्राः अपि स्वज्ञानस्य उपयोगं कृषकानां कृते प्राधान्येन कुर्वन्तु, इति प्रतिपादनं राज्यस्य कृषिमन्त्री तथा वसंतराव नायक मराठवाडा कृषिविश्वविद्यालयस्य प्रति-कुलपतिना अधिवक्तृ-माणिकरावः कोकाटे महोदयेन परभणीमध्ये कृतम

राज्यपालः तथा वसंतराव नायक मराठवाडा कृषिविश्वविद्यालयस्य कुलपतिः सी. पी. राधाकृष्णन् इत्यस्य अध्यक्षतायाम् अद्य बुधवासरे (तमे 23 दिनाङ्के) विश्वविद्यालयस्य सुवर्णजयंती दीक्षान्तसभागृहे षड्विंशः दीक्षान्तसमारोहः सम्पन्नः।

तस्मिन् प्रसङ्गे कृषिमन्त्री कोकाटे महोदयः अवदन्। व्यासपिठे जलसंपदामन्त्री राधाकृष्ण विखे-पाटील, सार्वजनिक-आरोग्य-कुटुम्बकल्याण-पानीयपुरवठ-स्वच्छता-ऊर्जामन्त्रिणी, महिला-बालविकास-सार्वजनिकनिर्माणराज्यमन्त्रिणी च तथा जिल्हायाः पालकमन्त्रिणी श्रीमती मेघना साकोरे-बोर्डीकर, कृषिमूल्यमण्डलस्य अध्यक्षः पाशा पटेल, विश्वविद्यालयस्य कुलगुरुः प्रा. डॉ. इन्द्रमणिः, आमदारः तथा कार्यकारीपरिषदासदस्यः डॉ. राहुल पाटील, आमदारः रत्नाकर गुट्टे, आमदारः राजेश विटेकर, कृषिअभियन्ता तथा भारतीयतन्त्रज्ञानसंस्था खड्गपुरस्य पूर्वनिर्देशकः वीरेंद्रकुमारः तिवारी च प्रमुखः उपस्थिताः आसन्।

तत्रैव जलसंपदामन्त्री राधाकृष्ण विखे-पाटील महोदयाय राज्यपालेन राधाकृष्णन् इत्यनेन करकमलेन मानदः डॉक्टरेट् उपाधिः प्रदत्तः, तेन च सम्मानितः।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button