शिक्षाराज्य

सेलूनगर्याः ‘स्वस्ति:’ राज्यपालेन गौरवः कृतः

राज्यस्तरीयस्य निबन्धस्पर्धायां द्विलक्षस्य पारितोषिकं प्राप्तम्

परभणी: महाराष्ट्रराज्यसरकारस्य श्रीभगवान् महावीरस्वामिनिर्वाणमहोत्सवसमितेः तर्फतः आयोजिता महावीरस्वामिनः जीवनचरित्रं आधारितं राज्यस्तरीयं निबन्धस्पर्धायां परभणीजनपदस्य सेलूनगरे स्थितस्य नूतनविद्यालयशिक्षणसंस्थायाः बाहेतीबिहाणी नूतनआङ्ग्लविद्यालयस्य छात्रायै स्वस्ति: जिनेशकाला नामिकायै द्विलक्षं द्वाविंशतिसहस्रं द्विशतद्वाविंशति रूप्यकाणि रोचनं पारितोषिकं प्राप्तम्।

दिल्लीमध्ये रविवासरे (द्वितीयदिनाङ्के) राजभवने आयोजिते कार्यक्रमे राज्यपालेन सी.पी. राधाकृष्णेन स्वस्ति: पारितोषिकं सम्मानचिह्नं च प्रदानं कृतम्।

पारितोषिकवितरणसमारोहे कौशल्यविकासमन्त्री मंगलप्रभातलोढा, विधायकः चैनसुखसञ्चेती, ललितगान्धी, हितेशभाइ मोता इत्यादयः प्रमुखतया उपस्थिताः आसन्।

निबन्धस्पर्धायां स्वस्तिः कालायाः राज्यस्तरे द्वितीयं स्थानं प्राप्तम्।

अस्मिन्नेव प्रसङ्गे स्वस्ति: पिता जिनेशः प्रकाशचन्दकाला, माता पायलकाला, भ्राता विशालः सुभाषचन्दकाला, अनिता काला, प्रशासनिकाधिकारी भुजङ्गदेउळगावकर, शिक्षकः अमोलजाधव च उपस्थिताः आसन्।

अस्य सफलतायाः सन्दर्भे संस्थायाः अध्यक्षः डॉ. एस.एम. लोया, उपाध्यक्षः डी.के. देशपाण्डे, सचिवः प्राचार्यः डॉ. वी.के. कोठेकर, सहसचिवः जयप्रकाश बिहाणी, नन्दकिशोर बाहेती, सीताराम मन्त्री, दत्तराव पावडे, मकरन्द दिग्रसकर, प्राचार्यः डॉ. शरद कुलकर्णी, प्राचार्यः एन.पी. पाटील, भूषण देउळगावकर इत्यादयः विविधस्तराभ्यः अभिनन्दनं प्रददति।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button